भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥

किं तत् किं धर्मकं च तत् इति । उच्यते — बृहत् महच्च तत् प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं स्वयम्प्रभम् अनिन्द्रियगोचरम् अत एव न चिन्तयितुं शक्यते अस्य रूपमिति अचिन्त्यरूपम् । सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरम् , निरतिशयं हि सौक्ष्म्यम् अस्य, सर्वकारणत्वात् ; विभाति विविधम् आदित्यचन्द्राद्याकारेण भाति दीप्यते । किञ्च, दूरात् विप्रकृष्टाद्देशात् सुदूरे विप्रकृष्टतरे देशे वर्तते अविदुषाम् अत्यन्त-अगम्यत्वात् तद्ब्रह्म । इह देहे अन्तिके समीपे च, विदुषामात्मत्वात् । सर्वान्तरत्वाच्च आकाशस्यापि अन्तरश्रुतेः । इह पश्यत्सु चेतनावत्सु इत्येतत् , निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिः लक्ष्यमाणम् । क्व ? गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढं लक्ष्यते विद्वद्भिः । तथापि अविद्यया संवृतं सत् न लक्ष्यते तत्रस्थमेव अविद्वद्भिः ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS