अथर्ववेदीया मुण्डकोपषद्
अथ द्वितीये मुण्डके द्वितीयः खण्डः
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं
परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥१॥
अरूपं सत् अक्षरं केन प्रकारेण विज्ञेयमिति उच्यते — आविः प्रकाशं, संनिहितम् , वागाद्युपाधिभिः — ज्वलति भ्राजतीति श्रुत्यन्तरात् — शब्दादीन् उपलभमानवत् अवभासते ; दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैः आविर्भूतं सत् लक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म संनिहितं सम्यक् स्थितं हृदि, तत् गुहाचरं नाम गुहायां चरतीति दर्शनश्रवणादिप्रकारैः गुहाचरमिति प्रख्यातम् । महत् सर्वमहत्त्वात् , पदं पद्यते सर्वेण इति, सर्वपदार्थास्पदत्वात् । कथं तन्महत्पदमिति, उच्यते ? यतः अत्र अस्मिन्ब्रह्मणि एतत्सर्वं समर्पितं सम्प्रवेशितं रथनाभौ इव अराः — एजत् चलत् पक्ष्यादि, प्राणत् प्राणितीति प्राणापानादिमत् मनुष्यपश्वादि, निमिषच्च यन्निमेषादिक्रियावत् , यच्च अनिमिषत् ; च -शब्दात् समस्तमेतत् अत्रैव ब्रह्मणि समर्पितम् । एतत् यदास्पदं सर्वं जानथ हे शिष्याः, अवगच्छत तदात्मभूतं भवताम् ; सदसत् सदसत्स्वरूपं सदसतोः मूर्तामूर्तयोः स्थूलसूक्ष्मयोः, तद्व्यतिरेकेण अभावात् । वरेण्यं वरणीयम् , तदेव हि सर्वस्य नित्यत्वात् प्रार्थनीयम् ; परं व्यतिरिक्तं विज्ञानात्प्रजानामिति व्यवहितेन सम्बन्धः ; यल्लौकिकविज्ञान-अगोचरमित्यर्थः । यत् वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु ; तद्ध्येकं ब्रह्म अतिशयेन वरं सर्वदोषरहितत्वात् ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS