भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥९॥

किञ्च, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव कृतार्थाः कृतप्रयोजनाः इति एवम् अभिमन्यन्ति अभिमन्यन्ते अभिमानं कुर्वन्ति बालाः अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्मफलरागाभिभवनिमित्तम् , तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS