भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥८॥

किञ्च, अविद्यायाम् अन्तरे मध्ये वर्तमानाः अविवेकप्रायाः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदितवेदितव्याश्च इति मन्यमाना आत्मानं सम्भावयन्तः, ते च जङ्घन्यमानाः जरारोगाद्यनेकानर्थव्रातैः हन्यमानाः भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वात् अन्धेनैव अचक्षुष्केणैव नीयमानाः प्रदर्श्यमानमार्गाः ; यथा लोके अन्धाः चक्षूरहिता गर्तकण्टकादौ पतन्ति, तद्वत् ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS