अथर्ववेदीया मुण्डकोपषद्
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥२॥
याम् एताम् अथर्वणे प्रवदेत प्रावदत् ब्रह्मविद्यां ब्रह्मा, तामेव ब्रह्मणः प्राप्ताम् अथर्वा पुरा पूर्वम् ; उवाच उक्तवान् अङ्गिरे अङ्गीर्नाम्ने ब्रह्मविद्याम् । स च अङ्गीः भारद्वजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहनाम्ने प्राह प्रोक्तवान् । भारद्वाजः अङ्गिरसे स्वशिष्याय पुत्राय वा परावरां परस्मात्परस्मात् अवरेण अवरेण प्राप्ता इति परावरा परावरसर्वविद्याविषयव्याप्तेर्वा, तां परावराम् आङ्गिरसे प्राह इत्यनुषङ्गः ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS