भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अतः समुद्रा गिरयश्च सर्वे अस्मात्स्यन्दन्ते
सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो
रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥९॥

अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिमवदादयः अस्मादेव पुरुषात् सर्वे । स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवः नद्यः सर्वरूपाः बहुरूपाः । अस्मादेव पुरुषात् सर्वाः ओषधयः व्रीहियवाद्याः । रसश्च मधुरादिः षड्विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्ध्यन्तराले शरीरस्य आत्मनश्च आत्मवद्वर्तते इति अन्तरात्मा ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS