अथर्ववेदीया मुण्डकोपषद्
अरा इव रथनाभौ संहता यत्र नाड्यः स
एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ
आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥६॥
किञ्च, अरा इव यथा रथनाभौ समर्पिता अराः, एवं संहताः सम्प्रविष्टाः यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यः नाड्यः, तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एषः प्रकृत आत्मा अन्तः मध्ये चरते चरति वर्तते । पश्यन् शृण्वन् मन्वानो विजानन् बहुधा अनेकधा क्रोधहर्षादिप्रत्ययैः जायमान इव जायमानः अन्तःकरणोपाध्यनुविधायित्वात् ; वदन्ति हि लौकिका हृष्टो जातः क्रुद्धो जात इति । तमात्मानम् ओमित्येवम् ओङ्कारालम्बनाः सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत । उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्मविद्याविविदिषुत्वात् निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्ति आचार्यः — स्वस्ति निर्विघ्नमस्तु वः युष्माकं पाराय परकूलाय ; कस्य ? अविद्यातमसः परस्तात् ; अविद्यारहितब्रह्मात्मस्वरूपगमनाय इत्यर्थः ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS