अथर्ववेदीया मुण्डकोपषद्
सङ्क्षेपतः परविद्याविषयम् अक्षरं निर्विशेषं पुरुषं सत्यम् ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिना मन्त्रेण उक्त्वा, पुनः तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते ; सङ्क्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति ॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः
श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं
विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥४॥
यो हि प्रथमजात् प्राणात् हिरण्यगर्भात् जायते अण्डस्यान्तर्विराट् , स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽपि एतस्मादेव पुरुषाज्जायते एतन्मयश्च इत्येतदर्थमाह, तं च विशिनष्टि—
अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्य उत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्य इति सर्वत्रानुषङ्गः कर्तव्यः अस्य इत्यस्य पदस्य वक्ष्यमाणस्य यस्य इति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्य इत्येतत् । सर्वं हि अन्तःकरणविकारमेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एव अग्निविस्फुलिङ्गवत् विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुः अनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS