एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामी एष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥६॥
एषः हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्य ईश्वरः ईशिता ; न एतस्मात् जात्यन्तरभूतः अन्येषामिव, ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति श्रुतेः । अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेति एषः सर्वज्ञः । अत एव एषः अन्तर्यामी, अन्तरनुप्रविश्य सर्वेषां भूतानां यमयिता नियन्तापि एष एव । अत एव यथोक्तं सभेदं जगत्प्रसूयत इति एषः योनिः सर्वस्य । यत- एवम् , प्रभवश्च अप्ययश्च प्रभवाप्ययौ हि भूतानाम् एष एव ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS