भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनन्दमयो हि आनन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥

दर्शनादर्शनवृत्त्योः तत्त्व-अप्रतिबोधलक्षणस्य स्वापस्य तुल्यत्वात् सुषुप्तग्रहणार्थं ’यत्र सुप्तः’ इत्यादिविशेषणम् । अथवा, त्रिष्वपि स्थानेषु तत्त्व-अप्रतिबोधलक्षणः स्वापः अविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते — यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । न हि सुषुप्ते पूर्वयोरिव अन्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते ॥

तदेतत्सुषुप्तं स्थानम् अस्य इति सुषुप्तस्थानः । स्थानद्वयप्रविभक्तं मनःस्पन्दितं द्वैतजातं तथा रूप-अपरित्यागेन अविवेकापन्नं नैशतमोग्रस्तमिव अहः सप्रपञ्चकम् एकीभूतमित्युच्यते । अत एव स्वप्नजाग्रन्मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव ; सेयम् अवस्था अविवेकरूपत्वात् प्रज्ञानघन उच्यते । यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्वं घनमिव, तद्वत् प्रज्ञानघन एव । एवशब्दात् न जात्यन्तरं प्रज्ञानव्यतिरेकेणा अस्तीत्यर्थः । मनसो विषयविषय्याकारस्पन्दन-आयासदुःखाभावात् आनन्दमयः आनन्दप्रायः ; न आनन्द एव, अनात्यन्तिकत्वात् । यथा लोके निरायासः स्थितः सुखी आनन्दभुगुच्यते । अत्यन्त-अनायासरूपा हीयं स्थितिः अनेनात्मना अनुभूयत इत्यानन्दभुक् , ‘एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इति श्रुतेः । स्वप्नादिप्रतिबोधं चेतः प्रति द्वारीभूतत्वात् चेतोमुखः ; बोधलक्षणं वा चेतो द्वारं मुखम् अस्य स्वप्नाद्यागमनं प्रति इति चेतोमुखः । भूतभविष्यज्ज्ञातृत्वं सर्वविषयज्ञातृत्वम् अस्यैव इति प्राज्ञः । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा, प्रज्ञप्तिमात्रम् अस्यैव असाधारणं रूपमिति प्राज्ञः ; इतरयोर्विशिष्टमपि विज्ञानमस्तीति । सोऽयं प्राज्ञस्तृतीयः पादः ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS