अथ श्रीमच्छङ्करभगवतः कृतौ
अथर्ववेदीय-माण्डूक्योपनिषद्भाष्यम्
ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः शान्तिः शान्तिः
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
उपोद्घातः
प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोका -
न्भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् ।
पीत्वा सर्वान्विशेषान्स्वपिति मधुरभुङ्मायया भोजयन्नो
मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥
यो विश्वात्मा विधिजविषयान्प्राश्य भोगान्स्थविष्ठा -
न्पश्चाच्चान्यान्स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान्पुनरपि शनैः स्वात्मनि स्थापयित्वा
हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥ २ ॥
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । वेदान्तार्थसारसङ्ग्रहभूतमिदं प्रकरणचतुष्टयम् ओमित्येतदक्षरमित्यादि आरभ्यते । अत एव न पृथक् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते सम्बन्धाभिधेयप्रयोजनानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रकरणव्याचिख्यासुना सङ्क्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः । तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसम्बन्धाभिधेयप्रयोजनवद्भवति । किं पुनस्तत्प्रयोजनमिति, उच्यते — रोगार्तस्येव रोगनिवृत्तौ स्वस्थता, तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता ; अद्वैतभावः प्रयोजनम् । द्वैतप्रपञ्चस्य चाविद्याकृतत्वाद्विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनाय अस्यारम्भः क्रियते । ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४), (बृ. उ. ४ । ५ । १५) ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यद्विजानीयात्’ (बृ. उ. ४ । ३ । ३१) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्योऽस्यार्थस्य सिद्धिः । तत्र तावदोङ्कारनिर्णयाय प्रथमं प्रकरणमागमप्रधानमात्मतत्त्वप्रतिपत्त्युपायभूतम् । यस्य द्वैतप्रपञ्चस्योपशमे अद्वैतप्रतिपत्तिः रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्त्वप्रतिपत्तिः, तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् । तथा अद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ, युक्तितस्तथात्वप्रतिपादनाय तृतीयं प्रकरणम् । अद्वैतस्य तथात्वप्रतिपत्तिविपक्षभूतानि यानि वादान्तराण्यवैदिकानि सन्ति, तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् ॥
© 2023 KKP APP. All rights reserved | Design by SMDS