स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥४॥
स्वप्नः स्थानम् अस्य तैजसस्य इति स्वप्नस्थानः । जाग्रत्प्रज्ञा अनेकसाधना बहिर्विषया इव अवभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनसि आधत्ते ; तन्मनः तथा संस्कृतं चित्रित इव पटो बाह्यसाधनानपेक्षम् अविद्या-काम-कर्मभिः प्रेर्यमाणं जाग्रद्वत् अवभासते । तथा चोक्तम् — ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’ (बृ. उ. ४ । ३ । ९) इत्यादि । तथा ‘परे देवे मनस्येकीभवति’ (प्र. उ. ४ । २) इति प्रस्तुत्य ‘अत्रैष देवः स्वप्ने महिमानमनुभवति’ (प्र. उ. ४ । ५) इत्याथर्वणे । इन्द्रियापेक्षया अन्तःस्थत्वात् मनसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्य इति अन्तःप्रज्ञः, विषयशून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ; इह पुनः केवला वासनामात्रा प्रज्ञा भोज्या इति प्रविविक्तो भोग इति । समानमन्यत् । द्वितीयः पादः तैजसः ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS