स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा उत्कर्षादुभयत्वाद्वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥१०॥
स्वप्नस्थानः तैजसः यः, स ओङ्कारस्य उकारः द्वितीया मात्रा । केन सामान्येन इत्याह — उत्कर्षात् ; अकारादुत्कृष्ट इव हि उकारः ; तथा तैजसो विश्वात् । उभयत्वाद्वा ; अकारमकारयोः मध्यस्थः उकारः ; तथा विश्वप्राज्ञयोर्मध्ये तैजसः ; अतः उभयभाक्त्वसामान्यात् । विद्वत्फलमुच्यते — उत्कर्षति ह वै ज्ञानसन्ततिं विज्ञानसन्ततिं वर्धयति इत्यर्थः ; समानः तुल्यश्च, मित्रपक्षस्य इव शत्रुपक्षाणामपि अप्रद्वेष्यो भवति ; अब्रह्मविच्च अस्य कुले न भवति, य एवं वेद ॥१०॥