सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा
इदं सर्वमपीतिश्च भवति य एवं वेद ॥११॥
सुषुप्तस्थानः प्राज्ञः यः, स ओङ्कारस्य मकारः तृतीया मात्रा । केन सामान्येन इत्याह — सामान्यमिदम् अत्र — मितेः ; मितिः मानम् ; मीयेते इव हि विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः प्रवेशनिर्गमाभ्यां प्रस्थेन इव यवाः ; तथा ओङ्कारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इव अकार-उकारौ मकारे । अपीतेर्वा ; अपीतिः अप्ययः एकीभावः ; ओङ्कारोच्चारणे हि अन्त्ये अक्षरे एकीभूतौ इव अकार-उकारौ ; तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे । अतो वा सामान्यात् एकत्वं प्राज्ञमकारयोः । विद्वत्फलमाह — मिनोति ह वै इदं सर्वम् , जगद्याथात्म्यं जानातीत्यर्थः ; अपीतिश्च जगत्कारणात्मा च भवति इत्यर्थः । अत्र अवान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् ॥११॥
© 2023 KKP APP. All rights reserved | Design by SMDS