भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्राः मात्राश्च पादाः
अकार उकारो मकार इति ॥८॥

अभिधेयप्राधान्येन ओङ्कारः चतुष्पात् आत्मा इति व्याख्यातो यः, सोऽयम् आत्मा अध्यक्षरम् अक्षरमधिकृत्य अभिधानप्राधान्येन वर्ण्यमानः अध्यक्षरम् । किं पुनः तदक्षरम् इत्याह — ओङ्कारः । सोऽयमोङ्कारः पादशः प्रविभज्यमानः, अधिमात्रं मात्रामधिकृत्य वर्तत इत्यधिमात्रम् । कथम् ? आत्मनो ये पादाः, ते ओङ्कारस्य मात्राः । कास्ताः ? अकार उकारो मकार इति ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS