भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अभिधानाभिधेययोः एकत्वेऽपि अभिधानप्राधान्येन निर्देशः कृतः ‘ओमित्येतदक्षरमिदं सर्वम्’ इत्यादि । अभिधानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्येन निर्देशः अभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थः । इतरथा हि अभिधानतन्त्राभिधेयप्रतिपत्तिरिति अभिधेयस्याभिधानत्वं गौणमित्याशङ्का स्यात् । एकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोः — एकेनैव प्रयत्नेन युगपत्प्रविलापयंस्तद्विलक्षणं ब्रह्म प्रतिपद्येतेति । तथा च वक्ष्यति — ‘पादा मात्रा मात्राश्च पादाः’ (मा. उ. ८) इति । तदाह—

सर्वं ह्येतद्ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥

सर्वं ह्येतद्ब्रह्मेति । सर्वं यदुक्तम् ओङ्कारमात्रमिति, तदेतत् ब्रह्म । तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशति — अयमात्मा ब्रह्मेति । अयम् इति चतुष्पात्त्वेन प्रविभज्यमानं प्रत्यगात्मतया अभिनयेन निर्दिशति अयमात्मेति ॥

सोऽयमात्मा ओङ्काराभिधेयः परापरत्वेन व्यवस्थितः चतुष्पात् कार्षापणवत् , न गौरिव । त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिति करणसाधनः पादशब्दः ; तुरीयस्य तु पद्यत इति कर्मसाधनः पादशब्दः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS