कथं पुनः ओङ्कारनिर्णयः आत्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इति, उच्यते — ‘ओमित्येतत्’ (क. उ. १ । २ । १५) ‘एतदालम्बनम्’ (क. उ. १ । २ । १७) ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वान् एतेनैवायतनेन एकतरमन्वेति’ (प्र. उ. ५ । २) ‘ओमित्यात्मानं युञ्जीत’ (ना. ७९) ‘ओमिति ब्रह्म’ (तै. उ. १ । ८ । १) ‘ओङ्कार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादिश्रुतिभ्यः । रज्ज्वादिरिव सर्पादिविकल्पस्य आस्पदः अद्वय आत्मा परमार्थतः सन् प्राणादिविकल्पस्य आस्पदो यथा, तथा सर्वोऽपि वाक्प्रपञ्चः प्राणाद्यात्मविकल्पविषयः ओङ्कार एव । स च आत्मस्वरूपमेव, तदभिधायकत्वात् । ओङ्कारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविकल्पः अभिधानव्यतिरेकेण नास्ति ; ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) ‘तदस्य इदं वाचा तन्त्या नामभिः दामभिः सर्वं सितम् , सर्वं हीदं नामनी ३’ (ऐ. आ. २ । १ । ६) इत्यादिश्रुतिभ्यः । अत आह —
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति
सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥१॥
’ओमित्येतदक्षरमिदं सर्वम्’ इति । यदिदम् अर्थजातम् अभिधेयभूतम् , तस्य अभिधान-अव्यतिरेकात् , अभिधानस्य च ओङ्कार-अव्यतिरेकात् ओङ्कार एवेदं सर्वम् । परं च ब्रह्म अभिधानाभिधेयोपायपूर्वकमवगम्यत इत्योङ्कार एव । तस्य एतस्य परापरब्रह्मरूपस्याक्षरस्य ओमित्येतस्य उपव्याख्यानम् , ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्टं प्रकथनमुपव्याख्यानम् ; प्रस्तुतं वेदितव्यमिति वाक्यशेषः ॥
भूतं भवत् भविष्यत् इति कालत्रयपरिच्छेद्यं यत् , तदपि ओङ्कार एव, उक्तन्यायतः । यच्च अन्यत् त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यम् अव्याकृतादि, तदपि ओङ्कार एव ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS