चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याह — नान्तःप्रज्ञमित्यादिना । सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात् तस्य शब्द-अनभिधेयत्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्षति ॥
शून्यमेव तर्हि तत्; न, मिथ्याविकल्पस्य निर्निमित्तत्व-अनुपपत्तेः ; न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात् तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः प्रत्याय्यत्वम् उदकाद्याधारस्य इव घटादेः ; न, प्राणादिविकल्पस्य असत्वात् शुक्तिकादिष्विव रजतादेः ; न हि सदसतोः सम्बन्धः शब्दप्रवृत्तिनिमित्तभाक् , अवस्तुत्वात् ; नापि प्रमाणान्तरविषयत्वं स्वरूपेण । आत्मनो निरुपाधिकत्वात् गवादिवत् , आत्मनो निरुपाधिकत्वात् । गवादिवत् नापि जातिमत्त्वम् , अद्वितीयत्वेन सामान्यविशेषाभावात् ; नापि क्रियावत्त्वं पाचकादिवत् , अविक्रियत्वात् । नापि गुणवत्त्वं नीलादिवत् , निर्गुणत्वात् । अतो नाभिधानेन निर्देशमर्हति ॥
शशविषाणादिसमत्वात् निरर्थकत्वं तर्हि ; न, आत्मत्वावगमे तुरीयस्य अनात्मतृष्णाव्यावृत्तिहेतुत्वात् शुक्तिकावगमे इव रजततृष्णायाः ; न हि तुरीयस्य आत्मत्वावगमे सति अविद्यातृष्णादिदोषाणां सम्भवोऽस्ति । न च तुरीयस्य आत्मत्व-अनवगमे कारणमस्ति, सर्वोपनिषदां तादर्थ्येन उपक्षयात् — ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादीनाम् ॥ सोऽयमात्मा परमार्थ-अपरमार्थरूपः चतुष्पात् इत्युक्तः । तस्य अपरमार्थरूपम् अविद्याकृतं रज्जुसर्पादिसमम् उक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् । अथेदानीम् अबीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्त-स्थानत्रयनिराकरणेन आह — नान्तःप्रज्ञमित्यादिना ॥
ननु आत्मनः चतुष्पात्त्वं प्रतिज्ञाय पादत्रयकथनेनैव चतुर्थस्य अन्तःप्रज्ञादिभ्योऽन्यत्वे सिद्धे ‘नान्तःप्रज्ञम्’ इत्यादिप्रतिषेधोऽनर्थकः । न, सर्पादिविकल्पप्रतिषेधेनैव रज्जुस्वरूपप्रतिपत्तिवत् त्र्यवस्थस्यैव आत्मनः तुरीयत्वेन प्रतिपिपादयिषितत्वात् , ‘तत्त्वमसि’ इतिवत् । यदि हि त्र्यवस्थात्मविलक्षणं तुरीयमन्यत् , तत्प्रतिपत्तिद्वाराभावात् शास्त्रोपदेशानर्थक्यं शून्यतापत्तिर्वा ॥
रज्जुरिव सर्पादिभिः विकल्प्यमाना स्थानत्रयेऽपि आत्मा एक एव अन्तःप्रज्ञादित्वेन विकल्प्यते यदा, तदा अन्तःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणसमकालमेव आत्मनि अनर्थप्रपञ्चनिवृत्तिलक्षणं फलं परिसमाप्तमिति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा न मृग्यम् । रज्जुसर्पविवेकसमकाले इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगमस्य । येषां पुन तमोपनयनव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते, तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेण अन्यतरावयवेऽपि च्छिदिर्व्याप्रियते इत्युक्तं स्यात् । यदा पुनः घटतमसोः विवेककरणे प्रवृत्तं प्रमाणम् अनुपादित्सित-तमोनिवृत्तिफलावसानं छिदिरिव च्छेद्यावयवसम्बन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना, तदा नान्तरीयकं घटविज्ञानं न प्रमाणफलम् । न च तद्वदपि अत्मन्यध्यारोपित-अन्तःप्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्य अनुपादित्सित-अन्तःप्रज्ञत्वादिनिवृत्तिव्यतिरेकेण तुरीये व्यापारोपपत्तिः। अन्तःप्रज्ञत्वादि-निवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः । तथा च वक्ष्यति — ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति । ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तर-अनवस्थानात् , अवस्थाने वा अनवस्थाप्रसङ्गात् द्वैत-अनिवृत्तिः ; तस्मात् प्रतिषेधविज्ञानप्रमाणव्यापारसमकालमेव आत्मन्यध्यारोपित-अन्तःप्रज्ञत्वाद्यनर्थनिवृत्तः इति सिद्धम् ॥
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृश्यमव्यवहार्यम् अग्राह्यमलक्षणम् अचिन्त्यमव्यपदेश्यम् एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥७॥
नान्तःप्रज्ञमिति तैजसप्रतिषेधः । नबहिष्प्रज्ञमिति विश्वप्रतिषेधः ; नोभयतःप्रज्ञमिति जागरितस्वप्नयोः अन्तरालावस्थाप्रतिषेधः । नप्रज्ञानघनमिति सुषुप्तावस्थाप्रतिषेधः। बीजभाव-अविवेकरूपत्वात् । नप्रज्ञमिति युगपत् सर्वविषयज्ञातृत्वप्रतिषेधः ; नाप्रज्ञमिति अचैतन्यप्रतिषेधः ॥
कथं पुनः अन्तःप्रज्ञत्वादीनाम् आत्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत्प्रतिषेधात् असत्त्वं गम्यत इति ? उच्यते ; ज्ञस्वरूपाविशेषेऽपि इतरेतरव्यभिचारात् असत्यत्वं रज्ज्वादाविव सर्पधारादिविकल्पभेदवत् । सर्वत्र अव्यभिचारात् ज्ञस्वरूपस्य सत्यत्वम् । सुषुप्ते व्यभिचरतीति चेत् ; न, सुषुप्तस्य अनुभूयमानत्वात् , ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इति श्रुतेः ॥
अत एव अदृश्यम् । यस्माददृश्यम् , तस्मादव्यवहार्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणम् अलिङ्गमित्येतत् , अननुमेयम् इत्यर्थः । अत एव अचिन्त्यम् । अत एव अव्यपदेश्यं शब्दैः । एकात्मप्रत्ययसारं जाग्रदादिस्थानेषु एक एव अयमात्मा इति अव्यभिचारी यः प्रत्ययः, तेन अनुसरणीयम् । अथवा, एकः आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्याधिगमे, तत्तुरीयम् एकात्मप्रत्ययसारम् , ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति श्रुतेः । अन्तःप्रज्ञत्वादिस्थानिधर्मप्रतिषेधः कृतः । प्रपञ्चोपशमम् इति जाग्रदादिस्थानधर्माभावः उच्यते । अत एव शान्तम् अविक्रियम् , शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थं तुरीयं मन्यन्ते, प्रतीयमानपादत्रयरूपवैलक्षण्यात् । स आत्मा स विज्ञेयः इति । प्रतीयमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः, तथा ‘तत्त्वमसि’ इत्यादिवाक्यार्थः आत्मा ‘अदृष्टो द्रष्टा’ (बृ. उ. ३ । ७ । २३) ‘न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्यादिभिः उक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभावः ॥७॥
© 2023 KKP APP. All rights reserved | Design by SMDS