जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्रा आप्तेरादिमत्त्वाद्वा आप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥९॥
तत्र विशेषनियमः क्रियते — जागरितस्थानः वैश्वानरः यः, स ओङ्कारस्य अकारः प्रथमा मात्रा । केन सामान्येन इत्याह — आप्तेः ; आप्तिः व्याप्तिः ; अकारेण सर्वा वाक् व्याप्ता, ‘अकारो वै सर्वा वाक्’ (ऐ. आ. २ । ३ । १९) इति श्रुतेः । तथा वैश्वानरेण जगत् , ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’ (छा. उ. ५ । १८ । २) इत्यादिश्रुतेः । अभिधानाभिधेययोः एकत्वं च अवोचाम । आदिः अस्य विद्यते इति आदिमत् ; यथैव आदिमत् अकाराख्यम् अक्षरम् , तथा वैश्वानरः ; तस्माद्वा सामान्यात् अकारत्वं वैश्वानरस्य । तदेकत्वविदः फलमाह — आप्नोति ह वै सर्वान्कामान् , आदिः प्रथमश्च भवति महताम् , य एवं वेद, यथोक्तम् एकत्वं वेद इत्यर्थः ॥९॥
© 2023 KKP APP. All rights reserved | Design by SMDS