भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

कथं चतुष्पात्त्वमित्याह —

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥

जागरितस्थान इति । जागरितं स्थानम् अस्य इति जागरितस्थानः, बहिः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य, सः बहिष्प्रज्ञः ; बहिर्विषया इव प्रज्ञा अविद्याकृता अवभासते इत्यर्थः । तथा सप्त अङ्गानि अस्य ; ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ’ (छा. उ. ५ । १८ । २) इत्यग्निहोत्रकल्पनाशेषत्वेन आहवनीयोऽग्निः अस्य मुखत्वेन उक्त इत्येवं सप्ताङ्गानि यस्य, सः सप्ताङ्गः । तथा एकोनविंशतिर्मुखानि अस्य ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश, वायवश्च प्राणादयः पञ्च, मनः बुद्धिः अहङ्कारः चित्तमिति, मुखानीव मुखानि तानि ; उपलब्धिद्वाराणि इत्यर्थः । स एवंविशिष्टो वैश्वानरः यथोक्तैर्द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्ते इति स्थूलभुक् । विश्वेषां नराणाम् अनेकधा सुखादिनयनाद्विश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरः, विश्वानर एव वैश्वानरः, सर्वपिण्डात्म-अन्यत्वात् ; स प्रथमः पादः । एतत्पूर्वकत्वात् उत्तरपादाधिगमस्य प्राथम्यम् अस्य ॥

कथम् ‘अयमात्मा ब्रह्म’ इति प्रत्यगात्मनः अस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वमिति ? नैष दोषः, सर्वस्य प्रपञ्चस्य साधिदैविकस्य अनेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात् ; सर्वभूतानि चात्मनि । ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) इत्यादिश्रुत्यर्थश्च उपसंहृतः एवं स्यात् ; अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यगात्मा साङ्‍ख्यादिभिरिव दृष्टः स्यात् ; तथा च सति अद्वैतमिति श्रुतिकृतो विशेषो न स्यात् , साङ्‍ख्यादिदर्शनेन अविशेषात् । इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ; अतो युक्तमेव अस्य आध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मना आधिदैविकेन एकत्वम् अभिप्रेत्य सप्ताङ्गत्ववचनम् । ‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गदर्शनाच्च ॥

विराजैकत्वम् उपलक्षणार्थं हिरण्यगर्भ-अव्याकृतात्मनोः । उक्तं चैतत् मधुब्राह्मणे — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम्’ (बृ. उ. २ । ५ । १) इत्यादि । सुषुप्त-अव्याकृतयोस्तु एकत्वं सिद्धमेव, निर्विशेषत्वात् । एवं च सति एतत्सिद्धं भविष्यति — सर्वद्वैतोपशमे च अद्वैतमिति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS