अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतः एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ॥१२॥
अमात्रः मात्रा यस्य न सन्ति, सः अमात्रः ओङ्कारः चतुर्थः तुरीयः आत्मैव केवलः अभिधानाभिधेयरूपयोः वाङ्मनसयोः क्षीणत्वात् अव्यवहार्यः ; प्रपञ्चोपशमः शिवः अद्वैतः संवृत्तः एवं यथोक्तविज्ञानवता प्रयुक्त ओङ्कारः त्रिमात्रः त्रिपादः आत्मैव ; संविशति आत्मना स्वेनैव स्वं पारमार्थिकम् आत्मानम् , य एवं वेद ; परमार्थदर्शनात् ब्रह्मवित् तृतीयं बीजभावं दग्ध्वा आत्मानं प्रविष्ट इति न पुनर्जायते, तुरीयस्य अबीजत्वात् । न हि रज्जुसर्पयोर्विवेके रज्ज्वां प्रविष्टः सर्पः बुद्धिसंस्कारात् पुनः पूर्ववत् तद्विवेकिनाम् उत्थास्यति । मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च क्लृप्तसामान्यविदां यथावदुपास्यमान ओङ्कारो ब्रह्मप्रतिपत्तये आलम्बनीभवति । तथा च वक्ष्यति — ‘आश्रमास्त्रिविधाः’ (मा. का. ३ । १६) इत्यादि ॥१२॥
ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः शान्तिः शान्तिः
इति अथर्ववेदीय-माण्डूक्योपनिषद्भाष्यम्
© 2023 KKP APP. All rights reserved | Design by SMDS