सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
यो वा एतामेवं वेद अपहत्य पाप्मानम् अनन्ते स्वर्गे
लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥
यो वै एतां ब्रह्मविद्याम् ‘केनेषितम्’ (के. उ. १ । १) इत्यादिना यथोक्ताम् एवं महाभागाम् ‘ब्रह्म ह देवेभ्यः’ (के. उ. ३ । १) इत्यादिना स्तुतां सर्वविद्याप्रतिष्ठां वेद । ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) इत्युक्तमपि ब्रह्मविद्याफलम् अन्ते निगमयति — अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणि इत्येतत् । अनन्ते इति विशेषणात् न त्रिविष्टपे । अनन्तशब्दः औपचारिकोऽपि स्यात् इत्यतः आह — ज्येये इति । ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति । न पुनः संसारमापद्यते इत्यभिप्रायः ॥
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्याम् । मा मा ब्र्ह्म निराकरोत् अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥
इति श्रीमच्छङ्करभगवतः कृतौ केनोपनिषत्पदभाष्ये चतुर्थः खण्डः
इति केनोपनिषद्भाष्यम्
ओं शान्तिः शान्तिः शान्तिः
© 2023 KKP APP. All rights reserved | Design by SMDS