सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
शिष्याचार्यसंवादात् प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवादनिर्वृत्तम् अर्थमेव बोधयति — यस्यामतम् इत्यादिना ।
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
यस्य ब्रह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्म इति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग्ब्रह्म इत्यभिप्रायः । यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्म इति निश्चयः, न वेद एव सः, न ब्रह्म विजानाति सः ।।
विद्वदविदुषोः यथोक्तौ पक्षौ अवधारयति — अविज्ञातं विजानताम् इति, अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतां सम्यग्विदितवताम् इत्येतत् । विज्ञातं विदितं ब्रह्म
अविजानताम् असम्यग्दर्शिनाम् , इन्द्रियमनोबुद्धिष्वेव आत्मदर्शिनाम् इत्यर्थः; न तु अत्यन्तमेव अव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातम् अस्माभिः ब्रह्म इति मतिर्भवति । इन्द्रियमनोबुद्ध्युपाधिषु आत्मदर्शिनां तु ब्रह्मोपाधिविवेक-अनुपलम्भात् ,
बुद्ध्याद्युपाधेश्च विज्ञातत्वात् विदितं ब्रह्म इत्युपपद्यते भ्रान्तिः, इत्यतः असम्यग्दर्शनं पूर्वपक्षत्वेन उपन्यस्यते — विज्ञातमविजानताम् इति । अथवा हेत्वर्थः उत्तरार्धः ’अविज्ञातम्’ इत्यादिः ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS