भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

नेदं ब्रह्म यत् ’इदम्’ इति उपाधिभेदविशिष्टम् अनात्मा ईश्वरादि उपासते ध्यायन्ति । ’तदेव ब्रह्म त्वं विद्धि’ इति उक्तेऽपि नेदं ब्रह्म इति अनात्मनः अब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं वा ॥

ओं यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यन्मनसा न मनुते । मन इत्यन्तःकरणं बुद्धिमनसोः एकत्वेन गृह्यते । मनुते अनेन इति मनः सर्वकरणसाधारणम् , सर्वविषयव्यापकत्वात् । ‘कामः सङ्कल्पो विचिकित्सा श्रद्धा-अश्रद्धा, धृतिः- अधृतिः, धीः भीः, इत्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति श्रुतेः कामादिवृत्तिमन्मनः । तेन मनसा यत् चैतन्यज्योतिः मनसोऽवभासकं न मनुते न सङ्कल्पयति नापि निश्चिनोति लोकः, मनसः अवभासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेव इति स्वात्मनि न प्रवर्तते अन्तःकरणम् । अन्तःस्थेन हि चैतन्यज्योतिषा अवभासितस्य मनसो मननसामर्थ्यम् ।

तेन सवृत्तिकं मनः येन ब्रह्मणा मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्रह्मविदः । तस्मात् तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्रह्म विद्धि । नेदम् इत्यादि पूर्ववत् ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS