सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
अथ श्रीमच्छङ्करभगवतः कृतौ केनोपन्षद् पदभाष्ये
द्वितीयः खण्डः
एवं हेयोपादेयविपरीतः त्वम् आत्मा ब्रह्मति प्रत्यायितः शिष्यः अहमेव ब्रह्मेति सुष्ठु वेदाहमिति मा गृह्णीयादित्याशयादाहाचार्यः शिष्यबुद्धिविचालनार्थम् — यदीत्यादि ।
ननु इष्टा एव ’सु-वेद अहम्’ इति निश्चिता प्रतिपत्तिः । सत्यम् , इष्टा निश्चिता प्रतिपत्तिः; न हि सु वेदाहम् इति । यद्धि वेद्यं वस्तु विषयीभवति, तत् सुष्ठु वेदितुं शक्यम् , दाह्यमिव दग्धुम् अग्नेः दग्धुः । न तु अग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्म इति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्नप्रतिवचनोक्त्या ‘श्रोत्रस्य श्रोत्रम्’ (के. उ. १ । २) इत्याद्यया । ‘यद्वाचानभ्युदितम्’ (के. उ. १ । ५) इति च विशेषतः अवधारितम् । ब्रह्मवित्सम्प्रदायनिश्चयश्च उक्तः ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति । उपन्यस्तम् उपसंहरिष्यति च ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति । तस्माद् युक्तमेव शिष्यस्य सु-वेद इति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्यः, अग्निर्दग्धुरिव दग्धुमग्नेः । न च अन्यो वेदिता ब्रह्मणः अस्ति यस्य वेद्यम् अन्यत् स्याद् ब्रह्म । ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत् अन्यो विज्ञाता प्रतिषिध्यते । तस्मात् सुष्ठु वेदाहं ब्रह्म इति प्रतिपत्तिः मिथ्या एव । तस्मात् युक्तमेव आह आचार्यो यदीत्यादि ।
ओं यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं
यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्ये विदितम् ॥१॥
यदि कदाचित् मन्यसे सु-वेद इति- सुष्ठु वेदाहं ब्रह्म इति । कदाचित् यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चित् प्रतिपद्यते कश्चित् न इति साशङ्कमाह यदीत्यादि । दृष्टं च ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतम् अभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) इत्युक्ते प्राजापत्यः पण्डितोऽपि असुरराड्विरोचनः स्वभावदोषवशात् अनुपपद्यमानमपि विपरीतमर्थं शरीरम् आत्मा इति प्रतिपन्नः । तथा इन्द्रो देवराट् सकृत् द्विः त्रिः उक्तं च अप्रतिपद्यमानः स्वभावदोषक्षयम् अपेक्ष्य, चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद्गुरोः शृण्वतां कश्चित् यथावत्प्रतिपद्यते, कश्चित् अयथावत्, कश्चित् विपरीतं, कश्चित् न प्रतिपद्यते । किमु वक्तव्यम् अतीन्द्रियम् आत्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सदसद्वादिनः तार्किकाः सर्वे । तस्माद्विदितं ब्रह्म इति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वात् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्तमेव आचार्यस्य ||
दभ्रम् अल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किम् अनेकानि ब्रह्मणो रूपाणि महान्ति अर्भकाणि च, येनाह दभ्रमेव इत्यादि ? बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि, न स्वतः । स्वतस्तु ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्’ (क. उ. १ । ३ । १५) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् । अत उच्यते — चैतन्यम् , पृथिव्यादीनाम् अन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति, तथा श्रोत्रादीनाम् अन्तःकरणस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा च उक्तम् । ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवम्; तथापि तदन्तःकरण-देहेन्द्रिय-उपाधिद्वारेणैव विज्ञानादिशब्दैः निर्दिश्यते, तदनुकारित्वात् देहादि-वृद्धि-सङ्कोच-च्छेदादिषु नाशेषु च, न स्वतः । स्वतस्तु ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति स्थितं भविष्यति ||
‘यदस्य ब्रह्मणो रूपम्’ इति पूर्वेण सम्बन्धः । न केवलम् अध्यात्मोपाधिपरिच्छिन्नस्य अस्य ब्रह्मणो रूपं त्वम् अल्पं वेत्थ; यदपि अधिदैवतोपाधिपरिच्छिन्नस्य अस्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम् , तदपि नूनं दभ्रमेव वेत्थ इति मन्ये अहम् ।
यदध्यात्मं यदपि देवेषु तदपि च उपाधिपरिच्छिन्नत्वात् दभ्रत्वात् न निवर्तते । यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तम् अनन्तम् एकम् अद्वैतं भूमाख्यं नित्यं ब्रह्म, न तत् सुवेद्यम् इत्यभिप्रायः । यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म ||
© 2023 KKP APP. All rights reserved | Design by SMDS