सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
इत्यनेन वाक्येन आत्मा ब्रह्म इति प्रतिपादिते श्रोतुः आशङ्का जाता — कथं नु आत्मा ब्रह्म । आत्मा हि नाम अधिकृतः कर्मणि उपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्, स्वर्गं वा प्राप्तुमिच्छति । तत् तस्मादन्यः उपास्यः विष्णुः ईश्वरः, इन्द्रः, प्राणो वा ब्रह्म भवितुमर्हति, न तु आत्मा ; लोकप्रत्ययविरोधात् । यथा अन्ये तार्किकाः ईश्वरादन्यः आत्मा इत्याचक्षते, तथा कर्मिणः ’अमुं यज अमुं यज’ इति अन्या एव देवताः उपासते । तस्माद् युक्तं यत् विदितम् उपास्यं तद्ब्रह्म भवेत् , ततोऽन्यः उपासकः इति । ताम् एताम् आशङ्कां शिष्यलिङ्गेन उपलक्ष्य तद्वाक्याद्वा आह —
ओं यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्यनेन वाक्येन आत्मा ब्रह्म इति प्रतिपादिते श्रोतुः आशङ्का जाता — कथं नु आत्मा ब्रह्म । आत्मा हि नाम अधिकृतः कर्मणि उपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्, स्वर्गं वा प्राप्तुमिच्छति । तत् तस्मादन्यः उपास्यः विष्णुः ईश्वरः, इन्द्रः, प्राणो वा ब्रह्म भवितुमर्हति, न तु आत्मा ; लोकप्रत्ययविरोधात् । यथा अन्ये तार्किकाः ईश्वरादन्यः आत्मा इत्याचक्षते, तथा कर्मिणः ’अमुं यज अमुं यज’ इति अन्या एव देवताः उपासते । तस्माद् युक्तं यत् विदितम् उपास्यं तद्ब्रह्म भवेत् , ततोऽन्यः उपासकः इति । ताम् एताम् आशङ्कां शिष्यलिङ्गेन उपलक्ष्य तद्वाक्याद्वा आह —
मैवं शङ्किष्ठाः । यत् चैतन्यमात्रसत्ताकम् , वाचा — वागिति जिह्वामूलादिषु अष्टसु स्थानेषु विषक्तम् आग्नेयं वर्णानाम् अभिव्यञ्जकं करणम् , वर्णाश्च अर्थसङ्केतपरिच्छिन्नाः एतावन्तः एवंक्रमप्रयुक्ता इति ; एवं तदभिव्यङ्ग्यः शब्दः पदं वागित्युच्यते ; ‘अकारो वै सर्वा वाक् सैषा अस्य स्पर्श-अन्तःस्थ-ऊष्मभिः व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २ । ३ । ६) इति श्रुतेः । मितम् अमितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या — अनभ्युदितम् अप्रकाशितम् अनभ्युक्तम् । येन ब्रह्मणा विवक्षिते अर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यते इत्येतत् । यत् ‘वाचो ह वाक्’ (के. उ. १ । २) इत्युक्तम् , ‘वदन्वाक्’ (बृ. उ. १ । ४ । ७) ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३ । ७ । १०) इत्यादि च वाजसनेयके । ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित् तां वेद ब्राह्मणः’ इति प्रश्नम् उत्पाद्य प्रतिवचनम् उक्तम् ‘सा वाग्यया स्वप्ने भाषते’ ( ? ) इति । सा हि वक्तुर्वक्तिः नित्या वाक् चैतन्यज्योतिःस्वरूपा, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २६) इति श्रुतेः ॥
तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वात् ब्रह्म इति विद्धि विजानीहि त्वम् । यैः वागाद्युपाधिभिः ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १ । २) ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) इत्येवमादयः संव्यवहाराः असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान् व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धि इति ’एव’ शब्दार्थः॥५॥
© 2023 KKP APP. All rights reserved | Design by SMDS