सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
ओं यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥
यत् चक्षुषा न पश्यति न विषयीकरोति अन्तःकरणवृत्तिसंयुक्तेन लोकः, येन चक्षूंषि अन्तःकरणवृत्तिभेदभिन्नाः चक्षुर्वृत्तीः पश्यति चैतन्यात्मज्योतिषा विषयीकरोति व्याप्नोति । तदेव इत्यादि पूर्ववत् ॥७॥