सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
अथ श्रीमच्छङ्करभगवतः कृतौ केनोपनिषद्पदभाष्ये
उपोद्घातः
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्याम् । मा मा ब्र्ह्म निराकरोत् अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥ ओं शान्तिः शान्तिः शान्तिः
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
‘केनेषितम्’ इत्याद्या उपनिषत् परब्रह्मविषया वक्तव्या इति नवमस्याध्यायस्य आरम्भः । प्रागेतस्मात् कर्माणि अशेषतः परिसमापितानि, समस्तकर्माश्रयभूतस्य च प्राणस्य उपासनानि उक्तानि, कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तम् उक्तं कार्यम् ॥
सर्वमेतद् यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्ध्यर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या तु अशास्त्रीयया प्रवृत्त्या पश्वादिस्थावरान्ताः अधोगतिः स्यात् । ‘अथैतयोः पथोः न कतरेणचन तानि इमानि क्षुद्राणि असकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व इत्येतत्तृतीयं स्थानम्’ (छा. उ. ५ । १० । ८) इति श्रुतेः ; ‘प्रजा ह तिस्रोऽत्यायमीयुः’ (ऐ. आ. २ । १ । १), ( ऋ. मं. ८ । १०१ । १४) इति च मन्त्रवर्णात् ॥
विशुद्धसत्त्वस्य तु निष्कामस्यैव बाह्यात् अनित्यात् साध्यसाधनसम्बन्धात् इहकृतात् पूर्वकृताद्वा संस्कारविशेषोद्भवात् विरक्तस्य प्रत्यगात्मविषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नप्रतिवचनलक्षणया श्रुत्या प्रदर्श्यते ‘केनेषितम्’ इत्याद्यया । काठके च उक्तम् ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) इत्यादि । ‘परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इत्याद्याथर्वणे च । एवं हि विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते, नान्यथा ॥
एतस्माच्च प्रत्यगात्मब्रह्मविज्ञानात् संसारबीजमज्ञानं कामकर्मप्रवृत्तिकारणम् अशेषतो निवर्तते, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णात् , ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्यादिश्रुतिभ्यश्च ॥
कर्मसहितादपि ज्ञानात् एतत्सिध्यतीति चेत् , न; वाजसनेयके तस्य अन्यकारणत्ववचनात् । ‘जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इति प्रस्तुत्य ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इति आत्मनः अन्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारिव्राज्यविधाने हेतुरुक्तः ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति । तत्रायं हेत्वर्थः — प्रजा-कर्म-तत्संयुक्तविद्याभिः मनुष्य-पितृ-देवलोकत्रयसाधनैः अनात्मलोकप्रतिपत्तिकारणैः किं करिष्यामः । न च अस्माकं लोकत्रयम् अनित्यं साधनसाध्यम् इष्टम् , येषाम् अस्माकं स्वाभाविकः अजः अजरः अमृतः अभयो न वर्धते कर्मणा नो कनीयान् नित्यश्च लोक इष्टः । स च नित्यत्वात् न अविद्यानिवृत्तिव्यतिरेकेण अन्यसाधननिष्पाद्यः । तस्मात् प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वैषणासंन्यास एव कर्तव्यः इति ॥
कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञानस्य । न हि उपात्तकारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्मब्रह्मविषयस्य सहभावित्वम् उपपद्यते, वस्तुप्राधान्ये सति अपुरुषतन्त्रत्वाद् ब्रह्मविज्ञानस्य ॥
तस्मात् दृष्टादृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासा इयम् ‘केनेषितम्’ इत्यादिश्रुत्या प्रदर्श्यते ॥
शिष्याचार्यप्रश्नप्रतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात् सुखप्रतिपत्तिकारणं भवति । केवलतर्कागम्यत्वं च दर्शितं भवति ॥
‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) इति श्रुतेश्च । ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति’ (छा. उ. ४ । ९ । ३) ‘तद्विद्धि प्रणिपातेन’
(भ. गी. ४ । ३४) इत्यादिश्रुतिस्मृतिनियमाच्च॥
© 2023 KKP APP. All rights reserved | Design by SMDS