सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
उपनिषदं भो ब्रूहीति उक्ता त उपनिषद्
एवमनुशिष्टः शिष्य आचार्यमुवाच — उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सा इत्याह — ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम्, परमात्मविषयत्वात् अतीतविज्ञानस्य, वाव एव ते उपनिषदम् अब्रूम इति उक्तामेव परमात्मविषयाम् उपनिषदम् अब्रूम इति अवधारयति उत्तरार्थम् ॥
परमात्मविषयामुपनिषदं श्रुतवतः उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः ? यदि तावत् श्रुतस्य अर्थस्य प्रश्नः कृतः, ततः पिष्टपेषणवत् पुनरुक्तः अनर्थकः प्रश्नः स्यात् । अथ सावशेषा उक्ता उपनिषत् स्यात्, ततः तस्याः फलवचनेन उपसंहारो न युक्तः ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति । तस्मात् उक्तोपनिषच्छेषविषयः अपि प्रश्नः अनुपपन्न एव, अनवशेषितत्वात् । कस्तर्हि अभिप्रायः प्रष्टुरिति ॥
उच्यते । किं पूर्वोक्त-उपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा, अथ निरपेक्षा एव ? सापेक्षा चेत् अपेक्षितविषयाम् उपनिषदं ब्रूहि । अथ निरपेक्षा चेत् अवधारय पिप्पलादवत् ’न अतः परमस्ति’ इत्येवमभिप्रायः । एतदुपपन्नम् आचार्यस्य अवधारणवचनम् ‘उक्ता त उपनिषत् इति ॥
ननु न अवधारणमिदम् , यतः अन्यद्वक्तव्यमाह ‘तस्यै तपो दमः’ (के. उ. ४ । ८) इत्यादि । सत्यम् , वक्तव्यम् उच्यते आचार्येण । न तु उक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा ; किन्तु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैः तदङ्गैश्च सहपाठेन समीकरणात् तपःप्रभृतीनाम् । न हि वेदानां शिक्षाद्यङ्गानां च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सम्भवति । सहपठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेत् ; यथा सूक्तवाक-अनुमन्त्रणमन्त्राणां यथादैवतं विभागः, तथा तपोदमकर्मसत्यादीनामपि ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा इति कल्प्यते । वेदानां तदङ्गानां च अर्थप्रकाशकत्वेन कर्म-अत्मज्ञानोपायत्वम् इत्येवं हि अयं विभागो युज्यते अर्थसम्बन्ध-उपपत्तिसामर्थ्यादिति चेत् , न ; अयुक्तेः । न हि अयं विभागो घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धो वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायाः तत्फलस्य च निःश्रेयसस्य । ‘मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्(?) तस्मात् कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्य उपपद्यते । ततः असदेव सूक्तवाक-अनुमन्त्रणवत् यथायोगं विभागः इति ॥
तस्मात् अवधारणार्थता एव प्रश्नप्रतिवचनस्य उपपद्यते । एतावत्येव इयम् उपनिषत् उक्ता अन्यनिरपेक्षा अमृतत्वाय ॥ तस्यै तपो दमः इति ॥
© 2023 KKP APP. All rights reserved | Design by SMDS