सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ ३ ॥
तदभ्यद्रवत् तमभ्यवदत् कोऽसीति
अग्निर्वा अहमस्मीत्यब्रवीत्
जातवेदा वा अहमस्मीति ॥ ४ ॥
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयं
यदिदं पृथिव्यामिति ॥ ५ ॥
तस्मै तृणं निदधावेतद्दहेति
तदुपप्रेयाय सर्वजवेन
तन्न शशाक दग्धुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥
ते तदजानन्तो देवाः सान्तर्भयाः तद्विजिज्ञासवः अग्निम् अग्रगामिनं जातवेदसं सर्वज्ञकल्पम् अब्रुवन् उक्तवन्तः । हे जातवेदः! एतत् अस्मद्गोचरस्थं यक्षं विजानीहि, विशेषतो बुध्यस्व त्वं नः तेजस्वी किमेतद्यक्षमिति । तथा अस्तु इति तत् यक्षम् अभि-अद्रवत् तत्प्रति गतवान् अग्निः । तं च गतवन्तं पिपृच्छिषुं तत्समीपे अप्रगल्भत्वात् तूष्णीम्भूतं तद्यक्षम् अभ्यवदत् अग्निं प्रति अभाषत कोऽसि इति । एवं ब्रह्मणा पृष्टः अग्निः अब्रवीत् अग्निर्वै अग्निर्नाम अहं प्रसिद्धो जातवेदाः इति च नामद्वयेन प्रसिद्धतया आत्मानं श्लाघयन् इति । एवम् उक्तवन्तं ब्रह्म अवोचत् ’तस्मिन् एवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामर्थ्यम्’ इति । सोऽब्रवीत्, इदं जगत् सर्वं दहेयं भस्मीकुर्यां यत् इदं स्थावरादि पृथिव्याम् इति । ’पृथिव्याम्’ इत्युपलक्षणम्, यतः अन्तरिक्षस्थमपि दह्यत एव अग्निना ।।
तस्मै एवम् अभिमानवते, ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापितवत् । ब्रह्मणा ‘एतत् तृणमात्रं मम अग्रतः दह ; न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र’ इत्युक्तः तत् तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन वेगेन । गत्वा तत् न शशाक न अशकत् दग्धुम् । सः जातवेदाः तृणं दग्धुम् अशक्तः व्रीडितः हतप्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् न एतत् यक्षम् अशकं शक्तवान् अहं विज्ञातुं विशेषतः यदेतद्यक्षमिति ॥
© 2023 KKP APP. All rights reserved | Design by SMDS