भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

ओं यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेन अन्तःकरण-प्राणवृत्तिभ्यां सहितेन यत् न प्राणिति गन्धवत् न विषयीकरोति, येन चैतन्यात्मज्योतिषा अवभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेव इत्यादि सर्वं समानम् ॥

इति श्रीमच्छङ्करभगवतः कृतौ केनोपनिषद्भाष्ये
प्रथमः खण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS