सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः
सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥
यामिमां ब्राह्मीम् उपनिषदं तवाग्रे अब्रूम इति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः कायेन्द्रियमनसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिः दृष्टा । दृष्टा हि अमृदितकल्मषस्य उक्तेऽपि ब्रह्मणि अप्रतिपत्तिः विपरीतप्रतिपत्तिश्च, यथा इन्द्रविरोचनप्रभृतीनाम् । तस्मात् इह वा अतीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धेः ज्ञानं समुत्पद्यते यथाश्रुतम् ; blue‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे. उ. ६ । २३) blueइति मन्त्रवर्णात् । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. २०४ । ८) इति स्मृतेश्च ॥
इतिशब्दः उपलक्षणत्वप्रदर्शनार्थः । इत्येवमादि अन्यदपि ज्ञानोत्पत्तेः उपकारकम् ‘अमानित्वमदम्भित्वम्’ (भ. गी. १३ । ७) इत्याद् उपदर्शितं भवति । प्रतिष्ठा पादौ, पादौ इव अस्याः ; तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते, पद्भ्यामिव पुरुषः । वेदाश्चत्वारः सर्वाणि च अङ्गानि शिक्षादीनि षट्, कर्मज्ञानप्रकाशकत्वाद् वेदानां तद्रक्षणार्थत्वाद् अङ्गानां प्रतिष्ठात्वम् । अथवा, प्रतिष्ठाशब्दस्य पादरूपक(क)ल्पनार्थत्वात् वेदास्तु इतराणि सर्वाङ्गानि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीते अङ्गानि गृहीतान्येव भवन्ति, तदायत्तत्वात् अङ्गानाम् ॥
सत्यम् आयतनम् । यत्र तिष्ठत् उपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्मनःकायानाम् । तेषु हि आश्रयति विद्या ये अमायाविनः साधवः, न असुरप्रकृतिषु मायाविषु ; ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६)इति श्रुतेः । तस्मात् सत्यमायतनम् इति कल्प्यते । तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम् । ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते’ (महाभा. आ. ७४ । १०३) इति स्मृतेः ॥
© 2023 KKP APP. All rights reserved | Design by SMDS