सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः । निरुपमस्य ब्रह्मणो येनोपमानेन उपदेशः सोऽयम् आदेश इत्युच्यते । किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतः व्यद्युतत् विद्योतनं कृतवत् इत्येतत् अनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते । आ३ इत्युपमार्थः । विद्युतो विद्योतनमिवेत्यर्थः,
‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरे च दर्शनात् । विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतः ‘तेजः’ इत्यध्याहार्यम् । व्यद्युतत् विद्योतितवत् आ३ इव । विद्युतस्तेजः सकृत् व्द्योतितवत् इव् इत्यभिप्रायः । इतिशब्दः आदेशप्रतिनिर्देशार्थः — इति
अयमादेशः इति । ’इत्’ शब्दः समुच्चयार्थः । अयं च अपरः तस्य आदेशः । कोऽसौ ? न्यमीमिषत् यथा चक्षुः । न्यमीमिषत् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाश-तिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥
© 2023 KKP APP. All rights reserved | Design by SMDS