भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श
स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

यस्मात् अग्निवायू अपि इन्द्रवाक्यादेव विदाञ्चक्रतुः, इन्द्रेण हि उमावाक्यात्प्रथमं श्रुतं ब्रह्म इति ; तस्माद्वै इन्द्रः अतितरामिव अतिशेत इव अन्यान् देवान् । स ह् एनन्नेदिष्ठं पस्पर्श यस्मात् स हि एनत्प्रथमो विदाञ्चकार ब्रह्मेति उक्तार्थं वाक्यम् ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS