भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

तस्माद्वा एते देवा अतितरामिव अन्यान्देवान् यदग्निर्वायुरिन्द्रः
ते ह्येनन्नेदिष्ठं पस्पृशुः ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥

यस्मात् अग्नि-वायु-इन्द्राः एते देवा ब्रह्मणः संवाद-दर्शनादिना सामीप्यमुपगताः, तस्मात् स्वैर्गुणैः अतितरामिव शक्तिगुणादिमहाभाग्यैः अन्यान् देवान् अतितराम् अतिशेरत इव एते देवाः । इवशब्दः अनर्थकः अवधारणार्थो वा । यत् अग्निः वायुः इन्द्रः ते हि देवा यस्मात् एनत् ब्रह्म नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैः ब्रह्मणः संवादादिप्रकारैः, ते हि यस्माच्च हेतोः एनत् ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतत् , विदाञ्चकार विदाञ्चक्रुः इत्येतत्, ब्रह्म इति ॥

© 2023 KKP APP. All rights reserved | Design by SMDS