भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

एवं मिथ्याभिमानेक्षणवताम्-

तद्धैषां विजज्ञौ तेभ्यो
ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥

तत् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञातवत् ब्रह्म । सर्व-ईक्षितृ हि तत् सर्वभूतकरणप्रयोक्तृत्वात् देवानां च मिथ्याज्ञानमुपलभ्य मैव असुरवत् देवाः मिथ्याभिमानात् पराभवेयुः इति, तदनुकम्पया देवान् मिथ्याभिमान-अपनोदनेन अनुगृह्णीयाम् इति तेभ्यः देवेभ्यः ह किल अर्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मितेन अत्यद्भुतेन विस्मापनीयेन रूपेण देवानाम् इन्द्रियगोचरे प्रादुर्बभूव प्रादुर्भूतवत् । तत् प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तः देवाः किमिदं यक्षं पूज्यं महद्भूतम् इति ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS