सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य
एतदेवं वेद अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥७ ॥
किञ्च, तत् ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वात् वनं वननीयं सम्भजनीयम् । अतः तद्वनं नाम; प्रख्यातं ब्रह्म तद्वनमिति यतः, तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम् । अनेन नाम्ना उपासनस्य फलमाह — स यः कश्चित् एतत् यथोक्तं ब्रह्म एवं यथोक्तगुणं वेद उपास्ते अभि ह एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव, यथा ब्रह्म ॥
© 2023 KKP APP. All rights reserved | Design by SMDS