भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

स तस्मिन्नेव आकाशे स्त्रियमाजगाम बहु शोभमानाम्
उमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥

तद्यक्षं यस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरोभूतम्, इन्द्रश्च ब्रह्मणः तिरोधानकाले यस्मिन्नाकाशे आसीत्, सः इन्द्रः तस्मिन्नेव आकाशे तस्थौ “किं यद्यक्षम्” इति ध्यायन्; न निववृते अग्न्यादिवत् । तस्य इन्द्रस्य यक्षे भक्तिं बुद्ध्वा विद्या उमारूपिणी प्रादुरभूत् स्त्रीरूपा । सः इन्द्रः ताम् उमां बहु शोभमानाम्; सर्वेषां हि शोभमानानां शोभनतमा विद्या । तदा बहु शोभमाना इति विशेषणम् उपपन्नं भवति । हैमवतीं हेमकृत-आभरणवतीम् इव बहु शोभमानाम् इत्यर्थः । अथवा उमा एव हिमवतो दुहिता हैमवती, नित्यमेव सर्वज्ञेन ईश्वरेण सह वर्तत इति ज्ञातुं समर्था इति कृत्वा ताम् उपजगाम । इन्द्रः तां ह उमां किल उवाच पप्रच्छ ब्रूहि किमेतत् दर्शयित्वा तिरोभूतं यक्षम् इति ॥

इति श्रीमच्छङ्करभगवतः कृतौ केनोपन्षद् पदभाष्ये
तृतीयः खण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS