भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

अथ चतुर्थः खण्डः

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥

सा ब्रह्मेति होवाच ह किल ब्रह्मणः वै ईश्वरस्यैव विजये — ईश्वरेणैव जिता असुराः । यूयं तत्र निमित्तमात्रम् । तस्यैव विजये — यूयं महीयध्वं महिमानं प्राप्नुथ । एतदिति क्रियाविशेषणार्थम् । मिथ्याभिमानस्तु युष्माकम् — अस्माकमेव अयं विजयः अस्माकमेव अयं महिमा इति । ततः तस्मादुमावाक्यात् ह एव विदाञ्चकार ब्रह्म इति इन्द्रः ; अवधारणात् ततो हैव इति, न स्वातन्त्र्येण ॥

© 2023 KKP APP. All rights reserved | Design by SMDS