भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इत्यवधृतम् । यदि ब्रह्म अत्यन्तमेव अविज्ञातम् , लौकिकानां ब्रह्मविदां च अविशेषः प्राप्तः । ‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इति च परस्परविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवम् अर्थमाह —

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

प्रतिबोधविदितम्- बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । सर्वे प्रत्ययाः विषयीभवन्ति यस्य, स आत्मा सर्वबोधान् प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेषु अविशिष्टतया लक्ष्यते ; न अन्यद्द्वारम् अन्तरात्मनो विज्ञानाय । अतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा, तदा तत् मतं तत् सम्यग्दर्शनम् इत्यर्थः ॥

सर्वप्रत्ययदर्शित्वे च उपजन-अपायवर्जितदृक्स्वरूपता नित्यत्वं विशुद्धस्वरूपत्वम् आत्मत्वं निर्विशेषता एकत्वं च सर्वभूतेषु सिद्धं भवेत्, लक्षणभेदाभावात् व्योम्न इव घटगिरिगुहादिषु । विदिताविदिताभ्याम् अन्यद्ब्रह्म इति आगमवाक्यार्थः एवं परिशुद्ध एव उपसंहृतो भवति । ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता’ (बृ. उ. ३ । ४ । २) इति हि श्रुत्यन्तरम् ।।

यदा पुनः बोधक्रियाकर्ता इति बोधक्रियालक्षणेन तत्कर्तारं विजानाति इति बोधलक्षणेन विदितं प्रतिबोधविदितम् इति व्याख्यायते, यथा यो वृक्षशाखाः चालयति स वायुः इति तद्वत्; तदा बोधक्रियाशक्तिमान् आत्मा द्रव्यम्, न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते, तदा बोधक्रियया सविशेषः । यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमात्रं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवः अनित्यः अशुद्धः इत्यादयो दोषा न परिहर्तुं शक्यन्ते ।।

यदपि काणादानाम् आत्म-मनःसंयोगजो बोध आत्मनि समवैति ; अतः आत्मनि बोद्धृत्वम् , न तु विक्रियात्मक आत्मा; द्रव्यमात्रस्तु भवति घट इव रागसमवायी । अस्मिन्पक्षेऽपि अचेतनं द्रव्यमात्रं ब्रह्म इति ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २७) ‘प्रज्ञानं ब्रह्म’ इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्यसंयुक्तत्वाच्च मनसः स्मृत्युत्पत्तिनियम-अनुपपत्तिः अपरिहार्या स्यात् । संसर्गधर्मित्वं च आत्मनः श्रुति-स्मृति-न्यायविरुद्धं कल्पितं स्यात् । ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । ५ । १५) ‘असक्तं सर्वभृत्’ (भ. गी. १३ । १४) इति हि श्रुतिस्मृती । न्यायश्च — गुणवत् गुणवता संसृज्यते, न अतुल्यजातीयम् । अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदपि अतुल्यजातीयेन संसृज्यते इत्येतत् न्यायविरुद्धं भवेत् । तस्मात् नित्य-अलुप्तज्ञानस्वरूपज्योतिः आत्मा ब्रह्म इति अयमर्थः सर्वबोधबोद्धृत्वे आत्मनः सिध्यति, न अन्यथा । तस्मात् ‘प्रतिबोधविदितं मतम्’ इति यथाव्याख्यात एवार्थः अस्माभिः ।।

यत्पुनः स्वसंवेद्यता प्रतिबोधविदितम् इत्यस्य वाक्यस्य अर्थो वर्ण्यते, तत्र भवति, सोपाधिकत्वे आत्मनो बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्य आत्मना आत्मानं वेत्तीति संव्यवहारः — ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) इति । न तु निरुपाधिकस्य आत्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति । संवेदनस्वरूपत्वात् संवेदनान्तरापेक्षा च न सम्भवति, यथा प्रकाशस्य प्रकाशान्तरापेक्षायाः न सम्भवः तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात्; ‘न हि विज्ञातुर्विज्ञातेः विपरिलोपो विद्यते अविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) ‘नित्यं विभुं सर्वगतम्’ (मु. उ. १ । १ । ६) ‘स वा एष महानज आत्मा अजरः अमरः अमृतः अभयः’ (बृ. उ. ४ । ४ । २५) इत्याद्याः श्रुतयो बाध्येरन् ॥

यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोधः इत्यपरे; निर्निमित्तः सनिमित्तः सकृद्वा असकृद्वा प्रतिबोध एव हि सः ।।

अमृतत्वम् अमरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्मात् विन्दते लभते यथोक्तात् प्रतिबोधात् प्रतिबोधविदितात्मकात्, तस्मात् प्रतिबोधविदितमेव मतम् इत्यभिप्रायः । बोधस्य हि प्रत्यगात्मविषयत्वं च मतम् अमृतत्वे हेतुः । न हि आत्मनः अनात्मत्वम् अमृतत्वं भवति । आत्मत्वात् आत्मनः अमृतत्वं निर्निमित्तमेव । एवं मर्त्यत्वम् आत्मनः यत् अविद्यया अनात्मत्वप्रतिपत्तिः ॥

कथं पुनः यथोक्तया आत्मविद्यया अमृतत्वं विन्दते इत्यतः आह — आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यम् । धन-सहाय-मन्त्र-औषधि-तपो-योगकृतं वीर्यं मृत्युं न शक्नोत्यभिभवितुम्, अनित्यवस्तुकृतत्वात् ; आत्मविद्याकृतं तु वीर्यम् आत्मना एव विन्दते, न अन्येन इत्यतः अनन्यसाधनत्वात् आत्मविद्यावीर्यस्य तदेव वीर्यं मृत्युं शक्नोत्यभिभवितुम् । यत एवम् आत्मविद्याकृतं वीर्यम् आत्मना एव विन्दते, अतः विद्यया आत्मविषयया विन्दते अमृतम् अमृतत्वम् । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इत्याथर्वणे । अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ॥

© 2023 KKP APP. All rights reserved | Design by SMDS