भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

एवम् आचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन् , यथोक्तम् आचार्येण आगमम् अर्थतो विचार्य, तर्कतश्च निर्धार्य, स्वानुभवं कृत्वा आचार्यसकाशम् उपगम्य, उवाच — मन्येऽहम् अथेदानीं विदितं ब्रह्म इति । कथमिति शृणुत —

नाहं मन्ये सु वेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

नाहं मन्ये सु-वेद इति, नैवाहं मन्ये सु-वेद ब्रह्म इति । नैव तर्हि विदितं त्वया ब्रह्म इत्युक्ते आह — नो न वेदेति वेद च । वेद च इति च-शब्दात् न वेद च ।।

ननु विप्रतिषिद्धं नाहं मन्ये सु वेद इति, नो न वेद इति, वेद च इति । यदि न मन्यसे सु-वेदेति, कथं मन्यसे वेद च इति । अथ मन्यसे वेद एव इति, कथं न मन्यसे सुवेद इति । एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सु-विज्ञायते इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वा इति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्वत्र अनर्थकरत्वेनैव प्रसिद्धौ ॥

एवम् आचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४)इति आचार्योक्त-आगमसम्प्रदायबलात् उपपत्त्यनुभवबलाच्च; जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन् आत्मनः ।।

कथमिति उच्यते — यो यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद, सः तत् ब्रह्म वेद । किं पुनस्तद्वचनम् इत्यत आह — नो न वेदेति वेद च इति । यदेव ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्युक्तम्, तदेव वस्तु अनुमान-अनुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेद इति, वेद च इति अवोचत् आचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहार्थं च । तथा च गर्जितम् उपपन्नं भवति ‘यो नस्तद्वेद तद्वेद’ इति ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS