सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
ओं न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
यस्मात् श्रोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रह्म, अतः न तत्र तस्मिन्ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमन-असम्भवात् । तथा न वाक् गच्छति । वाचा हि शब्दः उच्चार्यमाणः अभिधेयं प्रकाशयति यदा, तदा अभिधेयं प्रति वाग्गच्छति इत्युच्यते । तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्य आत्मा ब्रह्म । अतो न वाग्गच्छति । यथा अग्निः दाहकः प्रकाशकश्चापि सन् न हि आत्मानं प्रकाशयति दहति वा, तद्वत् । नो मनः मनश्च अन्यस्य सङ्कल्पयितृ- अध्यवसातृ च सत्, न आत्मानं सङ्कल्पयति अध्यवस्यति च, तस्यापि ब्रह्म आत्मा इति ।।
इन्द्रियमनोभ्यां हि वस्तुनो विज्ञानम् । तदगोचरत्वात् न विद्मः तद्ब्रह्म ईदृशमिति । अतो न विजानीमः यथा येन प्रकारेण एतत् ब्रह्म अनुशिष्यात् उपदिशेत् शिष्याय इत्यभिप्रायः । यद्धि करणगोचरम्, तदन्यस्मै उपदेष्टुं शक्यं जाति-गुण-क्रियाविशेषणैः । न तज्जात्यादिविशेषणवत् ब्रह्म । तस्मात् विषमं शिष्यान् उपदेशेन प्रत्याययितुम् इति उपदेशे तदर्थग्रहणे च यत्नातिशयकर्तव्यतां दर्शयति ॥ ३॥
© 2023 KKP APP. All rights reserved | Design by SMDS