भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ सामवेदीया केनोपनिषत्

ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः

ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्याम् । मा मा ब्र्ह्मनिराकरोत् अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः

प्रथमः खण्डः

ओं केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥

यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

इति सामवेदीय केनोपनिषदि प्रथमखण्डः ॥

अथ द्वितीयः खण्डः

यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो
रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव
ते मन्ये विदितम् ॥ १ ॥

नाह मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥

प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

॥ इति सामवेदीयकेनोपनिषदि द्वितीयखण्डः॥

अथ तृतीयः खण्डः

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त त ऐक्षन्त अस्माकमेवायं
विजयोऽस्माकमेवायं महिमेति ॥ १ ॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न
व्यजानत किमिदं यक्षमिति ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ ३ ॥

तदभ्यद्रवत् तमभ्यवदत् कोऽसीति अग्निर्वा
अहमस्मीत्यब्रवीत् जातवेदा वा अहमस्मीति ॥ ४ ॥

तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं
दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधौ एतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक
दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥

अथ वायुमब्रुवन् वायो एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥

तदभ्यद्रवत् तमभ्यवदत् कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिंस्त्वयि किं वीर्यमिति अपीदं
सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निदधौ एतदादत्स्वेति तदुपप्रेयाय सर्वजवेन
तन्न शशाकादातुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥

अथ इन्द्रमब्रुवन् मघवन् एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत् तस्मात्तिरोदधे ॥ ११ ॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानाम्
उमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥

॥ इति सामवेदीयकेनोपनिषदि तृतीयखण्डः ॥

अथ चतुर्थः खण्डः

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये
महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥

तस्माद्वा एते देवाः अतितरामिव अन्यान्देवान्
यदग्निर्वायुरिन्द्रः ते ह्येनन्नेदिष्ठं पस्पृशुः
ते हि एनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥

तस्माद्वा इन्द्रः अतितरामिव अन्यान्देवान् स ह्येनन्नेदिष्ठं
पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥

अथाध्यात्मं यदेतद्गच्छतीव च मनः अनेन च
एतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य
एतदेवं वेद अभिहैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥

उपनिषदं भो ब्रूहीति उक्ता त उपनिषद्
ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः
सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥

ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् ।
अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं
ब्रह्म निराकुर्याम् । मामा ब्र्ह्मनिराकरोत्
अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य
उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः

इति सामवेदीयकेनोपनिषदि चतुर्थखण्डः॥
इति सामवेदीया केनोपनिषत्


© 2023 KKP APP. All rights reserved | Design by SMDS