भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

एवं पृष्टवते योग्याय आह गुरुः ‘शृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता, कथं वा प्रेरयति इति ॥

ओं श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥

‘श्रोत्रस्य श्रोत्रं’ शृणोति अनेन इति श्रोत्रम्, शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियम् , तस्य श्रोत्रं सः यः त्वया पृष्टः ‘चक्षुःश्रोत्रं क उ देवो युनक्ति’ (के. उ. १ । १) इति । असौ एवं विशिष्टः श्रोत्रादीनि नियुङ्क्ते इति वक्तव्ये, ननु एतत् अननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोषः, तस्य अन्यथा विशेष-अनवगमात् । यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादि-नियोक्ता अवगम्येत दात्रादिप्रयोक्तृवत् , तदा इदम् अननुरूपं प्रतिवचनं स्यात् । न तु इह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टः लवित्रादिवत् अधिगम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेण आलोचन-सङ्कल्प-अध्यवसायलक्षणेन फलावसानलिङ्गेन अवगम्यते — अस्ति हि श्रोत्रादिभिरसंहतः, यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापः, गृहादिवत् इति संहतानां परार्थत्वात् अवगम्यते श्रोत्रादीनां प्रयोक्ता । तस्मात् अनुरूपमेव इदं प्रतिवचनं श्रोत्रस्य श्रोत्रम् इत्यादि ॥

कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रम् इत्यादेः ? न हि अत्र श्रोत्रस्य श्रोत्रान्तरेण अर्थः, यथा प्रकाशस्य प्रकाशान्तरेण । नैष दोषः । अयमत्र पदार्थः — श्रोत्रं तावत् स्वविषयव्यञ्जनसमर्थं दृष्टम् । तत्तु स्वविषयव्यञ्जनसामर्थ्यं श्रोत्रस्य चैतन्ये हि आत्मज्योतिषि नित्ये असंहते सर्वान्तरे सति भवति, न असति इति । अतः श्रोत्रस्य श्रोत्रम् इत्यादि उपपद्यते । तथा च श्रुत्यन्तराणि — ‘आत्मना एवायं ज्योतिषा आस्ते’ (बृ. उ. ४ । ३ । ६) ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । १०) ‘येन सूर्यस्तपति तेजसा इद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इत्यादीनि । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । ’ (भ. गी. १५ । १२) ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति च गीतासु । काठके च ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (क. उ. २ । २ । १३) इति । श्रोत्राद्येव सर्वस्य आत्मभूतं चेतनम् इति प्रसिद्धम् ; तदिह निवर्त्यते । अस्ति किमपि विद्वद्बुद्धिगम्यं सर्वान्तरतमं कूटस्थम् अजम् अजरम् अमृतम् अभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्यनिमित्तम् इति प्रतिवचनं शब्दार्थश्च उपपद्यत एव ।।

तथा मनसः अन्तःकरणस्य मनः । न हि अन्तःकरणमन्तरेण चैतन्यज्योतिषो दीपितिं स्वविषयसङ्कल्प-अध्यवसायादिसमर्थं स्यात् । तस्मात् मनसोऽपि मन इति । इह बुद्धिमनसी एकीकृत्य निर्देशो मनसः इति ।।

यद्वाचो ह वाचम्; यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते — यस्माच्छ्रोत्रस्य श्रोत्रम् , यस्मात् मनसो मनः इत्येवम् । वाचो ह वाचम् इति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात् । वाचो ह वाचम् इत्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्द्वितीया एव न क्रियते ? न ; बहुनामनुरोधस्य युक्तत्वात् । वाचम् इत्यस्य वाक् इत्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्द-द्वयानुरोधेन ; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमया एव निर्देष्टुं युक्तम् ।।

सः यः त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः, तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न हि आत्मना अनधिष्ठितस्य प्राणनम् उपपद्यते, ‘को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति’ (क. उ. २ । २ । ३) इत्यादिश्रुतिभ्यः । इहापि च वक्ष्यते ‘येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ८) इति ॥

श्रोत्रादि-इन्द्रियप्रस्तावे घ्राणस्य इव प्राणस्य न तु युक्तं ग्रहणम् । सत्यमेवम् । प्राणग्रहणेनैव तु घ्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिः, तद्ब्रह्मेति प्रकरणार्थो विवक्षितः ॥

तथा चक्षुषश्चक्षुः रूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामर्थ्यं तत् आत्मचैतन्य-अधिष्ठितस्यैव । अतः चक्षुषश्चक्षुः ।।

प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म ‘ज्ञात्वा’ इति अध्याह्रियते ; अमृता भवन्ति इति फलश्रुतेश्च । ज्ञानाद्धि अमृतत्वं प्राप्यते । ज्ञात्वा अतिमुच्य इति सामर्थ्यात् श्रोत्रादिकरणकलापम् उज्झित्वा — श्रोत्रादौ हि आत्मभावं कृत्वा, तदुपाधिः सन् , तदात्मना जायते म्रियते संसरति च । अतः श्रोत्रादेः श्रोत्रादिलक्षणं ब्रह्म आत्मा इति विदित्वा, अतिमुच्य श्रोत्राद्यात्मभावं परित्यज्य — ये श्रोत्राद्यात्मभावं परित्यजन्ति, ते धीराः धीमन्तः । न हि विशिष्टधीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्युक्तम् । प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्र-मित्र-कलत्र-बन्धुषु ममाहम्भाव-संव्यवहारलक्षणात्, त्यक्तसर्वैषणा भूत्वा इत्यर्थः । अमृताः अमरणधर्माणः भवन्ति । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. २८) ‘पराञ्चि खानि व्यतृणत् . . . आवृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) ‘यदा सर्वे प्रमुच्यन्ते . . . अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) इत्यादिश्रुतिभ्यः । अथवा, अतिमुच्य इति अनेनैव एषणात्यागस्य सिद्धत्वात् अस्माल्लोकात्प्रेत्य अस्माच्छरीरादपेत्य मृत्वा इत्यर्थः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS