सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
अथ श्रीमच्छङ्करभगवतः कृतौ सामवेदीय-केनोपनिषद्भाष्ये
प्रथमः खण्डः
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्याम् । मा मा ब्र्ह्म निराकरोत् अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥ ओं शान्तिः शान्तिः शान्तिः
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
ओं केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥
कश्चित् गुरुं ब्रह्मनिष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन् अभयं नित्यं शिवम् अचलमिच्छन् पप्रच्छ इति कल्प्यते केनेषितम् इत्यादि । केन इषितं केन कर्त्रा इषितम् इष्टम् अभिप्रेतं सत् मनः पतति गच्छति स्वविषयं प्रति इति सम्बध्यते । इषेः आभीक्ष्ण्यार्थस्य गत्यर्थस्य च इह असम्भवात् इच्छार्थस्यैव एतद्रूपमिति गम्यते । इषितम् इति इट्प्रयोगस्तु च्छान्दसः॥
तस्यैव प्रपूर्वस्य नियोगार्थे ’प्रेषितम’ इत्येतत् । तत्र प्रेषितम् इत्येव उक्ते प्रेषयितृ-प्रेषणविशेषविषय-आकाङ्क्षा स्यात् — केन प्रेषयितृविशेषेण, कीदृशं वा प्रेषणमिति । इषितम् इति तु विशेषणे सति तदुभयं निवर्तते, कस्य इच्छामात्रेण प्रेषितम् इति अर्थविशेषनिर्धारणात् ॥
यदि एषः अर्थः अभिप्रेतः स्यात् , केनेषितम् इत्येतावता एव सिद्धत्वात् प्रेषितमिति न वक्तव्यम् । अपि च शब्दाधिक्यात् अर्थाधिक्यं युक्तमिति इच्छया कर्मणा वाचा वा केन प्रेषितम् इत्यर्थविशेषः अवगन्तुं युक्तः । न, प्रश्नसामर्थ्यात् ; देहादिसङ्घातात् अनित्यात् कर्मकार्याद्विरक्तः अतोऽन्यत् कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथा इच्छावाक्कर्मभिः देहादिसङ्घातस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नः अनर्थक एव स्यात् । एवमपि ’प्रेषित’शब्दस्य अर्थो न प्रदर्शित एव । न ; संशयवतः अयं प्रश्न इति ’प्रेषित’शब्दस्य अर्थविशेषः उपपद्यते । किं यथाप्रसिद्धमेव कार्यकरणसङ्घातस्य प्रेषयितृत्वम् , किं वा सङ्घातव्यतिरिक्तस्य स्वतन्त्रस्य इच्छामात्रेणैव मन-आदिप्रेषयितृत्वम्, इत्यस्य अर्थस्य प्रदर्शनार्थं केनेषितं पतति प्रेषितं मनः इति विशेषण-द्वयम् उपपद्यते ॥
ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् ; तत्र कथं प्रश्न उपपद्यते इति, उच्यते — यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषये स्यात् , तर्हि सर्वस्य अनिष्टचिन्तनं न स्यात् । अनर्थं च जानन् न सङ्कल्पयति । अत्युग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः
। तस्माद्युक्त एव केनेषितम् इत्यादिप्रश्नः॥
केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्वव्यापारं प्रति । ’प्रथमः’ इति प्राणविशेषणं स्यात्, तत्पूर्वकत्वात् सर्वेन्द्रियप्रवृत्तीनाम् । केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति
नियुङ्क्ते प्रेरयति ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS