सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्म-जरा-मरण-रोगादिसम्प्राप्तिः अज्ञानात् । अतः –
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
इह एव चेत् मनुष्यः अधिकृतः समर्थः सन् यदि अवेदीत् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्यजन्मनि अस्मिन् अविनाशः अर्थवत्ता वा सद्भावो वा परमार्थता वा सत्यं विद्यते । न चेत् इह अवेदीत् इति, न चेत् इह जीवंश्चेत् अधिकृतः अवेदीत् न विदितवान्, तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्म-जरा-मरणादि-प्रबन्ध-अविच्छेदलक्षणा संसारगतिः ॥
तस्मादेवं गुणदोषौ विजानन्तो ब्राह्मणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकम् आत्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहम्भावलक्षणात् अविद्यारूपात् अस्माल्लोकात् उपरम्य सर्वात्मैकभावम् अद्वैतम् आपन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति श्रुतेः ॥५॥
इति श्रीमच्छङ्करभगवतः कृतौ केनोपन्षद्भाष्ये
द्वितीयः खण्डः
© 2023 KKP APP. All rights reserved | Design by SMDS