भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

अथ तृतीयः खण्डः

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥

ब्रह्म ह देवेभ्यो विजिग्ये । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इत्यादिश्रवणात् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पम् अत्यन्तमेव असत् दृष्टम् । तथा इदं ब्रह्म अविज्ञातत्वात् असदेव इति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्था इयम् आख्यायिका आरभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ, देवानामपि परो देवः, ईश्वराणामपि परमेश्वरः, दुर्विज्ञेयः, देवानां जयहेतुः, असुराणां पराजयहेतुः; तत्कथं नास्ति इति एतस्य अर्थस्य अनुकूलानि हि उत्तराणि वचांसि दृश्यन्ते ।।

अथवा ब्रह्मविद्यायाः स्तुतये । कथम् ? ब्रह्मविज्ञानाद्धि अग्न्यादयो देवाः देवानां श्रेष्ठत्वं जग्मुः । ततोऽपि अतितराम् इन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्म इत्येतत्प्रदर्श्यते— येन अग्न्यादयः अतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तः तथा इन्द्रः देवानामीश्वरोऽपि सन् इति । वक्ष्यमाण-उपनिषद्विधिपरं वा सर्वम् । ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वाद्यभिमानो मिथ्या इत्येतद्दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्यभिमानः तद्वदिति -

ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्यः अर्थाय विजिग्ये जयं लब्धवत् देवानाम् असुराणां च सङ्ग्रामे असुरान् ज्त्वा जगदरातीन् ईश्वरसेतुर्भेत्तॄन् देवेभ्यो जयं तत्फलं च प्रायच्छत् जगतः स्थेम्ने ॥ तस्य ह किल ब्रह्मणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः । तदा आत्मसंस्थस्य प्रत्यगात्मनः ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा च इत्यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः अग्न्यादिस्वरूपपरिच्छिन्न-आत्मकृतः अस्माकमेव अयं विजयः अस्माकमेव अयं महिमा अग्नि-वायु-इन्द्रत्वादिलक्षणो जयफलभूतः अस्माभिरनुभूयते न अस्मत्प्रत्यगात्मभूत-ईश्वरकृतः इति ॥

© 2023 KKP APP. All rights reserved | Design by SMDS