भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता

अथेन्द्रमब्रुवन् मघवन् एतद्विजानीहि किमेतद्यक्षमिति
तथेति तदभ्यद्रवत् तस्मात्तिरोदधे ॥ ११ ॥

अथ इन्द्रमब्रुवन् मघवन् एतद्विजानीहि इत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवा बलवत्त्वात् तथेति तदभ्यद्रवत् । तस्मात् इन्द्रात् आत्मसमीपं गतात् तद्ब्रह्म तिरोदधे तिरोभूतम् । इन्द्रस्य इन्द्रत्वाभिमानः अतितरां निराकर्तव्यः इत्यतः संवादमात्रमपि नादात् ब्रह्म इन्द्राय ।।

© 2023 KKP APP. All rights reserved | Design by SMDS