सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
अथ वायुमब्रुवन् वायो एतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ ७ ॥
तदभ्यद्रवत् तमभ्यवदत् कोऽसीति
वायुर्वा अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥
तस्मिंस्त्वयि किं वीर्यमिति, अपीदं सर्वमाददीय
यदिदं पृथिव्यामिति ॥ ९ ॥
तस्मै तृणं निदधौ एतदादत्स्वेति तदुपप्रेयाय
सर्वजवेन तन्न शशाकादातुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥
अथ अनन्तरं वायुमब्रुवन् हे वायो! एतद्विजानीहि इत्यादि समानार्थं पूर्वेण । वानात् गमनात् गन्धनाद्वा वायुः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । इदं सर्वमपि आददीय गृह्णीयाम् । यदिदं पृथिव्याम् इत्यादि समानमेव ॥
© 2023 KKP APP. All rights reserved | Design by SMDS