सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन
चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥
अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतत् गच्छति इव च मनः । एतद्ब्रह्म ढौकत इव विषयीकरोति इव । यच्च अनेन मनसा एतत् ब्रह्म उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भृशम् । सङ्कल्पश्च मनसो ब्रह्मविषयः । मन-उपाधिकत्वाद्धि मनसः सङ्कल्पस्मृत्यादि-प्रत्ययैः अभिव्यज्यते ब्रह्म, विषयीक्रियमाणमिव । अतः स एष ब्रह्मणः अध्यात्ममादेशः । विद्युन्निमेषणवत् अधिदैवतं द्रुतप्रकाशनधर्मि, अध्यात्मं च मनःप्रत्ययसमकालाभिव्यक्तिधर्मि, इत्येष आदेशः । एवम् आदिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेश उपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिः आकलयितुं शक्यम् ॥
© 2023 KKP APP. All rights reserved | Design by SMDS